हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Srimad Bhagavad Gita – श्रीमद्भगवद्गीता contact-sanatanadharm
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

 

Sri Siddhi Devi Ashtottara Shatanamavali – श्री सिद्धिदेवी अष्टोत्तरशतनामावली


ओं स्वानन्दभवनान्तस्थहर्म्यस्थायै नमः ।
ओं गणपप्रियायै नमः ।
ओं सम्योगस्वानन्दब्रह्मशक्त्यै नमः ।
ओं सम्योगरूपिण्यै नमः ।
ओं अतिसौन्दर्यलावण्यायै नमः ।
ओं महासिद्ध्यै नमः ।
ओं गणेश्वर्यै नमः ।
ओं वज्रमाणिक्यमकुटकटकादिविभूषितायै नमः ।
ओं कस्तूरीतिलकोद्भासिनिटिलायै नमः । ९

ओं पद्मलोचनायै नमः ।
ओं शरच्चाम्पेयपुष्पाभनासिकायै नमः ।
ओं मृदुभाषिण्यै नमः ।
ओं लसत्काञ्चनताटङ्कयुगलायै नमः ।
ओं योगिवन्दितायै नमः ।
ओं मणिदर्पणसङ्काशकपोलायै नमः ।
ओं काङ्क्षितार्थदायै नमः ।
ओं ताम्बूलपूरितस्मेरवदनायै नमः ।
ओं विघ्ननाशिन्यै नमः । १८

ओं सुपक्वदाडिमीबीजरदनायै नमः ।
ओं रत्नदायिन्यै नमः ।
ओं कम्बुवृत्तसमच्छायकन्धरायै नमः ।
ओं करुणायुतायै नमः ।
ओं मुक्ताभायै नमः ।
ओं दिव्यवसनायै नमः ।
ओं रत्नकल्हारमालिकायै नमः ।
ओं गणेशबद्धमाङ्गल्यायै नमः ।
ओं मङ्गलायै नमः । २७

ओं मङ्गलप्रदायै नमः ।
ओं वरदाभयहस्ताब्जायै नमः ।
ओं भवबन्धविमोचिन्यै नमः ।
ओं सुवर्णकुम्भयुग्माभसुकुचायै नमः ।
ओं सिद्धिसेवितायै नमः ।
ओं बृहन्नितम्बायै नमः ।
ओं विलसज्जघनायै नमः ।
ओं जगदीश्वर्यै नमः ।
ओं सौभाग्यजातशृङ्गारमध्यमायै नमः । ३६

ओं मधुरस्वनायै नमः ।
ओं दिव्यभूषणसन्दोहरञ्जितायै नमः ।
ओं ऋणमोचिन्यै नमः ।
ओं पारिजातगुणाधिक्यपदाब्जायै नमः ।
ओं परमात्मिकायै नमः ।
ओं सुपद्मरागसङ्काशचरणायै नमः ।
ओं चिन्तितार्थदायै नमः ।
ओं ब्रह्मभावमहासिद्धिपीठस्थायै नमः ।
ओं पङ्कजासनायै नमः । ४५

ओं हेरम्बनेत्रकुमुदचन्द्रिकायै नमः ।
ओं चन्द्रभूषणायै नमः ।
ओं सचामरशिवावाणीसव्यदक्षिणवीजितायै नमः ।
ओं भक्तरक्षणदाक्षिण्यकटाक्षायै नमः ।
ओं कमलासनायै नमः ।
ओं गणेशालिङ्गनोद्भूतपुलकाङ्ग्यै नमः ।
ओं परात्परायै नमः ।
ओं लीलाकल्पितब्रह्माण्डकोटिकोटिसमन्वितायै नमः ।
ओं वाणीकोटिसमायुक्तकोटिब्रह्मनिषेवितायै नमः । ५४

ओं लक्ष्मीकोटिसमायुक्तविष्णुकोटिप्रपूजितायै नमः ।
ओं गौरीकोटिसमायुक्तशम्भुकोटिसुसेवितायै नमः ।
ओं प्रभाकोटिसमायुक्तकोटिभास्करवन्दितायै नमः ।
ओं भानुकोटिप्रतीकाशायै नमः ।
ओं चन्द्रकोटिसुशीतलायै नमः ।
ओं चतुष्षष्टिकोटिसिद्धिनिषेवितपदाम्बुजायै नमः ।
ओं मूलाधारसमुत्पन्नायै नमः ।
ओं मूलबन्धविमोचन्यै नमः ।
ओं मूलाधारैकनिलयायै नमः । ६३

ओं योगकुण्डलिभेदिन्यै नमः ।
ओं मूलाधारायै नमः ।
ओं मूलभूतायै नमः ।
ओं मूलप्रकृतिरूपिण्यै नमः ।
ओं मूलाधारगणेशानवामभागनिवासिन्यै नमः ।
ओं मूलविद्यायै नमः ।
ओं मूलरूपायै नमः ।
ओं मूलग्रन्थिविभेदिन्यै नमः ।
ओं स्वाधिष्ठानैकनिलयायै नमः । ७२

ओं ब्रह्मग्रन्धिविभेदिन्यै नमः ।
ओं मणिपूरान्तरुदितायै नमः ।
ओं विष्णुग्रन्धिविभेदिन्यै नमः ।
ओं अनाहतैकनिलयायै नमः ।
ओं रुद्रग्रन्धिविभेदिन्यै नमः ।
ओं विशुद्धिस्थाननिलयायै नमः ।
ओं जीवभावप्रणाशिन्यै नमः ।
ओं आज्ञाचक्रान्तरालस्थायै नमः ।
ओं ज्ञानसिद्धिप्रदायिन्यै नमः । ८१

ओं ब्रह्मरन्ध्रैकनिलयायै नमः ।
ओं ब्रह्मभावप्रदायिन्यै नमः ।
ओं षट्कोणाष्टदलयुत-श्रीसिद्धियन्त्रमध्यगायै नमः ।
ओं अन्तर्मुखजनानन्तफलदायै नमः ।
ओं शोकनाशिन्यै नमः ।
ओं अव्याजकरुणापूरपूरितायै नमः ।
ओं वसुधारिण्यै नमः ।
ओं दारिद्र्यनाशिन्यै नमः ।
ओं लक्ष्म्यै नमः । ९०

ओं सर्वपापप्रणाशिन्यै नमः ।
ओं भुक्तिसिद्ध्यै नमः ।
ओं मुक्तिसिद्ध्यै नमः ।
ओं सुधामण्डलमध्यगायै नमः ।
ओं चिन्तामणये नमः ।
ओं सर्वसिद्ध्यै नमः ।
ओं कमलायै नमः ।
ओं वल्लभायै नमः ।
ओं शिवायै नमः । ९९

ओं सिद्धलक्ष्म्यै नमः ।
ओं मोक्षलक्ष्म्यै नमः ।
ओं जयलक्ष्म्यै नमः ।
ओं वरप्रदायै नमः ।
ओं रमायै नमः ।
ओं नन्दायै नमः ।
ओं महालक्ष्म्यै नमः ।
ओं विभूत्यै नमः ।
ओं भक्तिवर्धिन्यै नमः । १०८

इति श्री सिद्धिदेवी अष्टोत्तरशतनामावली ॥


 

 

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.